प्रज्ञापारमिताहॄदय सूत्रं ॥ नमः सर्वज्ञाय ॥ आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्या चरमाणो व्यवलोकयति स्म । पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म । इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् । रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् । एवमेव वेदानासंज्ञासंस्कारविज्ञानानि । इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः । तस्माच्चारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं । न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः
न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो
न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः । तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः । चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः । त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम् आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः । तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः । सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः तद्यथा । गते गते पारगते परसंगते बोधि सवाहा ॥ इति प्रञापारमिताहृदयं समाप्तम् ॥